काठमण्डपः, कागेश्वरी मनोहरा-९, पेप्सिकोला इति स्थाने स्थिते पाणिनि-विद्यालये अस्मिन् वर्षेऽपि भानुजयन्त्याः पूर्वसन्ध्यायां 'पाणिनि-छन्दस्सन्ध्या २०८२/पाणिनि छन्दसाँझ २०८२' इति साहित्यिकः सांस्कृतिकश्च कार्यक्रमो भव्यतया आयोजितः । शनैश्चरवासरे आषाढस्य २८ दिनाङ्के आयोजितोऽयं कार्यक्रमो पाणिनि-विद्यालयस्य अस्य कार्यक्रमस्य सप्तमं संस्करणमस्ति ।
कार्यक्रमस्य अध्यक्षतायां विद्यालयस्य प्राचार्यः प्रकाशचन्द्र खड्का, प्रमुखातिथ्ये च वरिष्ठः साहित्यकारः महाकविः डा. नवराज लम्साल च आस्ताम् । कार्यक्रमे वैदिकस्य सनातनधर्मस्य अभियन्ता, प्रसिद्धः कथाकारश्च ईश्वरकृष्ण-महाराजः, वरिष्ठः भाषाविद् डा. बलदेव अधिकारी 'गाउँले', संस्कृतपण्डितः प्रा.डा. मुकुन्दप्रसाद लामिछाने, विश्रुतः सञ्चारकर्मी, उत्प्रेरकः वक्ता, उद्घोषणप्रशिक्षकः तथा ओशोसाधकश्च नीराजन भण्डारी, चलच्चित्रनायिका सोविता सिम्खडा, नेपालीत्व इति समाचारसञ्जालस्य कार्यकारिणी अध्यक्षा अर्चना शर्मा चेति विशिष्टजनानाञ्च समुपस्थितिः आसीत् । समारोहे आमन्त्रिताः मुख्यातिथिः, विद्यालयस्य देवनागरीविभागस्य सदस्या कवियित्री गोमा रेग्मी चेत्यादयः षण्णां विशिष्टजनानां सम्मानश्च विद्यालयेन विभिन्नविधासु कृतः ।
प्रमुखातिथिना विहितं दीपप्रज्वलनम्, राष्ट्रगानम्, विद्यालयस्य देवनागरी-विभागस्य प्रमुखेण रोहिणीराज-तिमिल्सिनावर्येण प्रस्तुतं स्वागतभाषणञ्च पुरस्कृत्य प्रवृत्ते तस्मिन् कार्यक्रमे प्रथमायाः कक्षायाः आरभ्य दशमीपर्यन्तानां छात्राणां काव्यश्रावणस्य, नृत्यस्य, नाटकस्य च प्रस्तुतिः आसीत् ।
तत्र प्रारम्भिकप्रस्तुतिषु ‘कुमारीनृत्यम्’ विशेषं आकर्षकम् आसीत् । शिवताण्डवस्तोत्रगायनम्, गौरी-काव्यस्य काव्यांशप्रस्तुतिः, भानुभक्तीयस्य रामायणस्य काव्यांशप्रस्तुतिः, पाणिनिगीतम्, गुरुवन्दना, साहित्य-सुधा, उपदेशकविता इत्यादीन्यः प्रस्तुतयश्च आह्लादकर्यः आसन् । तत्र प्रस्तुते ‘सुन्दर देश नेपाल’, ‘नव-दुर्गा’ चेति नृत्ये कार्यक्रमे सांस्कृतिकसौन्दर्यं प्रकटितवती । तदतिरिक्तं मुनामदनकाव्ये बालानां भावात्मकं प्रदर्शनम्, भानुभक्तस्य सन्दर्भाधारितं नाटकञ्च प्रेक्षकाणां मनोमोदनमकुरुताम् । ‘Daffodils’, ‘Loveliest of Trees’, ‘Sonet 130’ इति आङ्ग्लकाव्यानां प्रस्तुतिभिः कार्यक्रमस्य बहुभाषिकत्वं प्रकटितम् ।
मुख्यातिथिः महाकविः डा. नवराज लम्साल शिक्षायां सङ्घर्षमूल्यानां आवश्यकतां दर्शयन् स्वस्य काव्यस्य अंशान् प्रस्तुतवान् । नेपालीभाषासाहित्यम्, सङ्गीतम्, संस्कृतिञ्च प्रति छात्राणां समाजस्य च ध्यानाकर्षणाय अयं कार्यक्रमः भूमिकां निर्वहतीति तत्रत्यैः वक्तृभिः प्रोक्तम् । तैः पाणिनि-विद्यालयेनानुष्ठितं शिक्षणे संस्कृतम्, भगवद्गीता, नीतिशास्त्रञ्चेति विषयाणां समावेशनप्रयत्नं प्राशंसयन् ।
कार्यक्रमस्य सर्वेऽपि अतिथिवक्तार आधुनिकविषयैः सह संस्कृतभाषा, भगवद्गीता, नीतिशास्त्रम् इत्यादीनि जीवनरक्षकशिक्षां नूतनपीढीं प्रति प्रदातुं विद्यालयस्य प्रशंसां कृत्वा आनन्दं प्रकटितवन्तः । कार्यक्रमस्य सञ्चालनं त्रिभुवन-विश्वविद्यालयस्य उपप्राध्यापकेन, प्रसिद्धेन दूरदर्शन-कार्यक्रम-प्रस्तोत्रा 'आकाशनीलम्' आचार्य-गोविन्द-घिमिरेवर्येण कृतमासीत् ।