प्रवासादागतानां रक्षणव्यवस्था भविष्यति ।
सर्वकारेण निर्वासनकेन्द्रस्य माध्यमेन प्रत्यावृतानाम्, कारावासाद् मुक्तानाम्, वित्तविहीनतया नेपालं प्रत्यावृतानाञ्च नेपालिनागरिकाणां कृते विधातव्यम् सुरक्षणावासवित्तं निरुह्यते । मन्त्रिपरिषदः गतसोमवासरे सिंहप्रासादे उपविष्टस्य उपवेशस्य पश्चात् सञ्चारकर्मिभिस्सह वदन् सर्वकारस्य प्रवक्ता विधिन्यायसंसदीयविषयमन्त्री च ज्ञानेन्द्रबहादुरकार्की सर्वकारेण वोढव्यस्य सुरक्षणावासस्य व्ययस्य प्रबन्धनम् श्रमवृत्तिसामाजिकसुरक्षामन्त्रालयो विदधातीति अज्ञापयत् । मन्त्रिपरिषदः उपवेशेन आगामिदिनानां कृते उपयुक्तस्थाने सुरक्षणावासं सञ्चालयितुम् निर्णीतमिति च मन्त्री कार्की अज्ञापयत् । उपवेशेन एतद्विक्रमाब्दीये राष्ट्रऋणपञ्चमसंशोधननियमावली, ऋणस्य प्राथमिकताद्वितीयापण–तृतीयसंशोधननियमावली च स्वीकृते स्तः । मन्त्रिपरिषदः उपवेशेन कोभिडऊनविंशतेः द्वितीयलहर्याः नियन्त्रणाय क्रियान्वितस्य निषेधादेशस्य पूर्वम्, एतस्मिन् अवधौ च विहितसंविदानाम् परं कार्यसम्पादनाय अवशिष्टानां च क्रयणसंविदानाम् अतिरिक्तव्ययस्य अवर्धनत्वेन समाप्तावधेः दिनाङ्काद् मासषट्काय अवधिं वर्धयितुं निर्णीतमिति मन्त्री कार्की अवोचत् । एवमेव सर्वकारेण सत्यनिरूपणमेलायोगाय, विलुप्तपरिवारव्यक्त्यनुसन्धानायोगाय च ऊनाशीतेः राजपत्राङ्कितकर्मचारिणाम् अस्थायिपदसंख्यां स्वीकर्तुं च निर्णीतमिति सर्वकारस्य प्रवक्तामन्त्री कार्की अज्ञापयत् । मन्त्रिपरिषदः उपवेशेन राष्ट्रिययोजनायोगस्य उपाध्यक्षपदे डक्टर विश्वनाथपौडेलः, सदस्ययोश्च रामकुमारफुयाँलः, दिलबहादुरलिम्बु च नियुक्तौ इति नेपालसर्वकारस्य प्रवक्ता ज्ञानेन्द्रबहादुरकार्की अज्ञापयत् । उपवेशेन अस्यैव श्रावणस्य षड्विंशदिवसाद् क्रियान्वयनत्वेन नेपालिसेनायाः बलाधिकृतरथिनं प्रभुरामशशर्माणम् कार्यवाहकप्रधानसेनापतिपदे नियुज्य राष्ट्रपतेः समक्षं परामृष्टं वर्तते । प्रधानसेनापतिः पूर्णचन्द्रथापा वयःसीमायाः कारणेन अस्मादेव मासाद् सेवानिवृत्तो जायमानो वर्तते ।।
कोरोनाविपद्विषयकं विवरणम् ।
विश्वव्यापिमाहामार्याः रूपेण प्रसृतस्य कोरोनाविषाणोः संक्रमणस्य गतिः नेपाले पूर्वसप्ताहापेक्षया एतस्मिन् सप्ताहे पुनः वर्धमाना अस्ति । नेपाले अस्मिन् सप्ताहे द्वाविंशतिसहस्राधिकजनाः संक्रान्ताः सन्ति । नेपाले अधुना यावत् संक्रान्तजनानाम् संख्या नवतिसहस्रोत्तर–षड्लक्षाधिका प्राप्ता अस्ति । अधुना नेपाले प्रतिदिनम् त्रिसहस्राधिकाः संक्रान्तजनाः प्राप्यमाणाः सन्ति । संक्रान्तेषु प्रतिशतम् षष्टिसंख्यकाः पुरुषाः सन्ति चेत् प्रतिशतम् चत्वारिंशत्संख्यकाः स्त्रियः सन्ति । संक्रान्तानाम् मध्ये अस्मिन् सप्ताहे द्वादशसहस्राधिकजनाः स्वस्थाः सम्भूताः सन्ति, एतान् योजयित्वा अधुना यावत् एकपञ्चाशत्सहस्रोत्तरषड्लक्षाधिकजनाः स्वस्थाः सम्भूताः सन्तीति स्वास्थ्यजनसंख्यामन्त्रालयेन ज्ञापितमस्ति । एवमेव अस्मिन् सप्ताहे नेपाले प्रायः सार्धशताधिकजनाः अस्य विषाणोः संक्रमणेन मृताः सन्ति । एतान् योजयित्वा ह्यः शुक्रवासरस्य प्रातःकालं यावत् सप्तोत्तर–नवसहस्रजनाः कोरोनाविषाणोः संक्रमणेन मृताः सन्ति । समग्रे देशे एतावत्पर्यन्तम् सप्ततिसहस्रोत्तर–पञ्चत्रिंशल्लक्षाधिकजनानाम् कोरोनाविषाणुसंक्रमणस्य पिसिआर इति विधिना विशेषपरीक्षणम् विहितम् अस्ति चेत् नवसहस्रोत्तरत्रिलक्षाधिकजनानाम् एन्टिजेनविधिना च परीक्षणम् विहितमस्ति । अधुना त्रिंशत्सहस्राधिकानाम् संक्रान्तजनानाम् उपचारः क्रियमाणः अस्ति । अधुना एकादशजनपदेषु पञ्चशताधिकाः सक्रियसंक्रान्तजनाः सन्ति चेत् चतुर्विंशतिजनपदेषु द्विशताधिकाः सक्रियसंक्रान्तजनाः सन्ति । अत्रान्तरे स्वास्थ्यजनसंख्यामन्त्रालयेन सप्तानामेव प्रदेशानाम् सामाजिकविकासमन्त्रालयाः न्यूनतोऽपि सहस्रं प्राणवायुवाहिगोलान् पूरयित्वा तत्परावस्थायां स्थापयितुम् निर्दिष्टाः सन्ति । संक्रमणस्य वर्धमानस्य अवस्थायाम् तृतीयलहर्याः सम्भावनाम् आकलय्य सर्वे सामाजिकविकासमन्त्रालयाः न्यूनतोपि सहस्रं प्राणवयुवाहिगोलान् पूरयित्वा तत्परावस्थायां स्थापयितुम् निर्दिष्टमिति मन्त्रालयस्य गुणस्तरनियमनमहाशाखायाः प्रमुखः डक्टरमदनकुमार उपाध्यायः अज्ञापयत् ।।
राष्ट्रपतिद्वारा युद्धसंग्रहालयस्योद्घाटनम ।
राष्ट्रपतिः विद्यादेवीभण्डारी गतबुधवासरे सिन्धुलीजनपदस्य कमलामाईनगरपालिकायाम् स्थापितस्य देशस्य प्रथमं युद्धसंग्रहालयम् उदघाटयत् । तदवसरे राष्ट्रपतिः भण्डारी अस्माकं वीरपूर्वजैः देशस्य रक्षायै निरुढायाः भूमिकायाः अस्माभिः भाविसन्तत्यै हस्तान्तरणेन सह अग्रे वर्धनीयमिति अवोचत् । राष्ट्रपतिः भण्डारी समयेन प्रदत्तं दायित्वं पूरयितुं सर्वेषां राजनीतिकदलानाम्, निर्वाचितजनप्रतिनिधीनाम्, राष्ट्रियनेतृत्वस्य च मध्ये परस्परं सहकार्यस्य मेलनस्य च आवश्यकतायां बलं प्रादात् । तदवसरे विधिन्यायसंसदीयविषयमन्त्री ज्ञानेन्द्रबहादुरकार्की अगदत् – सर्वकारेण प्रारब्धस्य एकीकरणमार्गकार्यक्रमस्य अन्तर्गतं युद्धसंग्रहालयस्य निर्माणकार्यम् एकः महत्वपूर्णः प्रयासो वर्तते । कार्यक्रमे प्रधानसेनापतिः पूर्णचन्द्रथापा अवोचत् – संग्रहालयनिर्माणम् नागरिकाणां सैनिकानाञ्च मध्ये सम्बन्धस्य एकम् उदाहरणं वर्तते । कार्यक्रमे राष्ट्रपतिना भण्डारिणा सिन्धुलीगढीसंग्रहालयस्य निर्माणे सहयोगप्रापकाः जनाः सम्मानीताः आसन् ।।
राष्ट्रपतिद्वारा प्रदेशप्रमुखो नियुक्त: ।
राष्ट्रपतिना विद्यादेवीभण्डारिणा गण्डकीप्रदशस्य प्रमुखपदे पृथ्वीमानगुरुङ, लुम्बिनीप्रदेशस्य प्रमुखपदे च अमिकशेरचन नियुक्तौ स्तः । नवनियुक्तौ प्रदेशप्रमुखौ गतबुधवासरे राष्ट्रपतेः विद्यादेवीभण्डारिणः समक्षं पदगोपनीयतयोः शपथम् अगृह्णताम् । राष्ट्रपतिना भण्डारिणा गतमंगलवासरस्य मन्त्रिपरिषदः निर्णयेन, प्रधानमन्त्रिणः परामर्शेन च नेपालस्य संविधानस्य त्रिषष्ट्यधिकशततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण इमौ प्रदेशप्रमुखपदे नियुक्तौ इति राष्ट्रपतिकार्यालयस्य सहायकप्रवक्त्रा केशवप्रसादघिमिरेऽभिधेन प्रकाशितायाम् विज्ञप्तौ उल्लिखितमस्ति । तत्पूर्वं गतमंगलवासरे एव राष्ट्रपतिना भण्डारिणा मन्त्रिपरिषदः परामर्शेन गण्डकीप्रदेशप्रमुखा सीताकुमारीपौडेलः, लुम्बिनीप्रदेशप्रमुखः धर्मनाथयादवश्च पदमुुक्तौ विहितौ आस्ताम् ।।
· सरकारगठनसन्दर्भे गठबन्धननायकानां मिथो विमर्श: ।
शासनारुढैः राजनीतिकदलैः मन्त्रिपरिषदः शीघ्रमेव पूर्णतायै विमृष्टमस्ति । गतबुधवासरे बालुवाटारवर्तिनि प्रधानमन्त्रिनिवासे सम्पन्ने शासनारुढानाम् राजनीतिकिदलानाम् प्रमुखनेतृणाम् उपवेशेन एवम् निर्णीतमस्तीति उपवेशे सहभागिभिः नेतृभिः ज्ञापितमस्ति । उपवेशे सर्वकारस्य न्यूनतमसहकार्यक्रमस्य, सर्वकारीयनियुक्तिषु समन्वयस्य च विषये विमृष्टमस्तीति च नेपालकाँग्रेसदलस्य महामन्त्री पूर्णबहादुरखड्का अज्ञापयत् । उपवेशे विभिन्नानाम् राजनीतिकदलानाम् नेतृभिः सर्वकारसञ्चालसम्बन्धे प्रधानमन्त्रिणे शेरबहादुरदेउवाभिधाय परामर्शः दत्तः आसीत् । उपवेशे नेपालिकाँग्रेसदलस्य, नेकपामाओवादिकेन्द्रदलस्य, जनतासमाजवादिदलस्य, राष्ट्रियजनमोर्चादलस्य, नेकपाएमालेदलस्य माधवकुमारनेपालसमूहस्य च नेतारः सहभागिनः आसन् । अत्रान्तरे राष्ट्रपतिना विद्यादेवीभण्डारिणा गतरविवासरे प्रधानमन्त्रिणः शेरबहादुरदेउवाभिधस्य परामर्शे नेपालिकाँग्रेसदलस्य सांसदः उमेशश्रेष्ठः स्वास्थ्यराज्यमन्त्रिपदे नियुक्तः अस्ति । अत्रैव नवनियुक्तेन राज्यमन्त्रिणा गतसोमवासरे स्वकार्यालयम् प्राप्य पदभारः स्वीकृतः अस्ति । स्वास्थ्यजनसंख्यामन्त्रालये समायोजिते एकस्मिन् कार्यक्रमे पदभारम् स्वीकुर्वन् राज्यमन्त्री श्रेष्ठः कोरोनाविरोधिसूचिकौषधानि यथाकथञ्चिदपि आनीय नागरिकाणाम् जीवनरक्षायै प्राथमिकतया कार्यम् कर्तुम् स्वास्थ्यमन्त्रालयस्य अधिकारिणः निर्दिष्टाः सन्ति । अस्यैव वर्षस्य अभ्यन्तरे एव सर्वेभ्यो नागरिकेभ्यो सूचिकौषधप्रदानम् वर्तमानसर्वकारस्य प्राथमिकतायाम् अस्तीति कथयन् राज्यमन्त्री श्रेष्ठः महामार्याः नागरिकाणाम् सुरक्षायै सूचिकौषधस्य व्यवस्थाम् कर्तुम् सर्वैः सक्रियैः भाव्यमिति च अधिकारिणः निर्दिष्टाः सन्ति ।।
· विश्वव्याघ्रदिवसमादाय कार्यसभा ।
व्याघ्राणाम् संरक्षणम्, मानवसमुदायस्यैव दायित्वम् इति सन्देशेन सहैव गतबृहस्पतिवासरे विश्वव्याघ्रदिवसः समायोजितः । व्याघ्रसंरक्षणस्य महत्त्वस्य च विषये जनचेतनायाः विस्ताराय जुलाइमास्य ऊनत्रिंशदिवसः अन्तरराष्ट्रियव्याघ्रदिवसत्वेन मन्यते । पश्चात्तनसमये व्याघ्राणाम् संरक्षणेन सहैव व्याघ्रेभ्यः मानवानाम् सुरक्षा च महान् समाह्वयः सम्भूतः अस्ति । नेपाले पश्चात्तनवर्षेषु व्याघ्राणाम् संख्या वर्धिता अस्ति, तेन सहैव व्याघ्राणाम् आक्रमणेन मानवानाम् मृत्युसंख्या च वर्धिता अस्तीति चिन्तायाः विषयः अस्ति । एकादशोत्तरद्विसहस्रतमख्रैस्ताब्दे रुसदेशस्य सेन्टपिटसवर्गनगरे समायोजिते विश्वव्याघ्रसम्मेलने भागम् गृह्णता तात्कालिकेन प्रधानमन्त्रिणा माधवकुमारनेपालेन द्वाविंशत्यधिकद्विसहस्रतमख्रैस्ताब्दम् यावत् नेपाले व्याघ्राणाम् संख्यायाः सार्धद्विशतम् प्रापणस्य प्रतिबद्धता व्यक्ता आसीत् । अष्टादशोत्तरद्विसहस्रतमख्रैस्ताब्दस्य गणनायाः अनुसारेण नेपाले पञ्चत्रिंशदधिकद्विशतसंख्यकाः व्याघ्राः सन्तीत्यतः आगामिनि वर्षे उक्तम् लक्ष्यम् पूर्णम् भवितेति वक्तुम् शक्यते । विश्वव्याघ्रदिवस्यावसरे गतबृहस्पतिवासरे ललितपुरस्य खुमलटारक्षेत्रे समायोजिते एकस्मिन् कार्यक्रमे प्रधानमन्त्री शेरबहादुरदेउवा व्याघ्राणाम् सुरक्षायै तेषाम् अवासस्थलानाम् संरक्षणाय सर्वकारः प्रतिबद्धः अस्तीति अकथयत् । व्याघ्रप्रभृतीनाम् वन्यजन्तूनाम् अवैधानिकरूपेण क्रयणविक्रयणम् निरस्य, तस्कराणाम् दण्डनस्य व्यवस्थाम् कर्तुञ्च सर्वकारः सक्रियः अस्तीति च कार्यक्रमे प्रधानमन्त्री देउवा प्रतिबद्धताम् प्राकटयत् । तथैव कार्यक्रमे नेकपाएमालेदलस्य वरिष्ठनेता माधवकुमारनेपालः देशस्य आर्थिकविकासाय सर्वकारसञ्चालने उपयुक्तान् सहयोगिनः स्वीकृत्य अग्रे वर्धितुम् प्रधानमन्त्रिणे परामर्शम् प्रायच्छत् । आत्मनः प्रधानमन्त्रित्वकाले एव व्याघ्रसंरक्षणाभियानम् प्रारब्धमासीदिति संस्मरता नेत्रा नेपालेन तदानीम् आत्मना निर्दिष्टम् लक्ष्यम् अधुना सफलीभूतमस्तीति हर्षम् प्राकटयत् । अत्रान्तरे अन्तरराष्ट्रियव्याघ्रदिवसस्यावसरे सन्देशम् ददती राष्ट्रपतिः विद्यादेवीभण्डारी व्याघ्रप्रभृतीनाम् लोपोन्मुखानाम् वन्यजन्तूनाम् प्रभाविसंरक्षणार्थम् सर्वान् सम्बद्धान् जनान् प्रेरयितुम् अपेक्षाम् व्यधात् । सन्देशे राष्ट्रपतिः भण्डारी व्याघ्राणाम् वासस्थानानाम् संरक्षणाय, व्याघ्रतस्कराणाम् नियन्त्रणाय च नेपालिसेनया, मध्यवर्तिक्षेत्रस्य जनैः, निकुञ्जप्रशासनेन च विहितस्य कार्यस्य प्रशंसाम् कृतवती अस्ति ।।
· प्रधानमन्त्रिणा साकम् अमेरिकीय- मन्त्रिणो दूरवाणीसंवाद: ।
प्रधानमन्त्रिणः शेरबहादुरदेउवाभिधस्य, संयुक्तराज्यअमेरिकादेशस्य विदेशमन्त्रिणः एन्टोनी ब्लिंकेन इत्यस्य च मध्ये गतमंगलवासरे दूरभाषसंवादः सम्भूतः अस्ति । दूरभाषवार्तायां नेपालअमेरिकादेशयोः द्विपक्षीयसहकार्यस्य विविधविषयेषु विमृष्टमिति परराष्ट्रमन्त्रालयेन ज्ञापितमस्ति । अनयोर्मध्ये द्विपक्षीयविकाससहकार्यस्य, जलवायुपरिवर्तनस्य, पारस्परिकाभिरुचेश्च विषयेषु वार्ता अभवत् । एवमेव कोभिडोनविंशतेः विरोधिनि युद्धे विधातव्यस्य सहयोगस्य सम्बन्धेऽपि अनयोर्मध्ये विमृष्टमासीदिति च परराष्ट्रमन्त्रालयेन ज्ञापितमस्ति ।।
प्रतिनिधिसभाविषये ।
प्रतिनिधिसभायाः उपवेशे निर्वाचनायोगस्य वर्षद्वयपूर्वस्य वार्षिकप्रतिवेदनम् प्रस्तुतमस्ति । उपवेशे प्रधानमन्त्रिणः शेरबहादुरदेउवाभिधस्य पक्षतो विधिन्यायसंसदीयविषयमन्त्री ज्ञानेन्द्रबबहादुरकार्की प्रतिवेदनमेतत् प्रास्तौत् । तत्पूर्वम् उपवशे सांसदाः प्राकृतिकविपदा विस्थापितानाम् नागरिकाणाम् यथासमयम् उद्धारसहायतापुनस्थापनासु ध्यानं दातुं सर्वकारस्य ध्यानम् आकर्षयन् । इमे आश्विनमासाद् कोरोनाविषाणोः तृतीयलहर्याः प्रसरणं जनस्वास्थ्यविद्भिः सम्भावितमस्तीति अवस्थायाम् एतस्य नियन्त्रणनिरोधनयोः कृते यथासमयं कार्ययोजनाम् आनेतुम् च सर्वकारस्य ध्यानाकर्षणम् अकुर्वन् ।।
शिक्षास्वास्थ्य समिते: सूच्यौषधानयनविमर्शो जात: ।
सर्वकारेण आगामिनम् आश्विनमासान्तं यावत् कोरोनाविषाणोः प्रतिरोधीनि अतिरिक्तानि पञ्चलक्षाधिकैककोटिः सूचिकौषधानि आनेष्यन्ते । प्रतिनिधिसभान्तर्गतायाः शिक्षास्वास्थ्यसमितेः गतसोमवासरस्योपेशे स्थास्थ्यजनसंख्यामन्त्रालयस्य सचिवः लक्ष्मणअर्यालः आश्विनमासान्तम् यावत् अतिरिक्तानि एककोटिम्, पञ्चलक्षाणि, अष्टाचत्वारिंशत्सहस्राणि च सूचिकौषधानि आनेतुं सर्वकारेण पूर्वकार्यम् विहितमस्तीति अज्ञापयत् । स्वास्थ्यसचिवस्य अर्यालस्य अनुसारेण विभिन्नदेशेभ्यः क्रीत्वा, अनुदानेन, कोभ्याक्ससहयोगकार्यक्रमस्य अन्तर्गञ्च इमानि सूचिकौषधानि आनेष्यमाणानि सन्ति । मन्त्रालयस्य नीतियोजनानुगमनमहाशाखायाः प्रमुखः डक्टरगुणराजलोहनी निषेधाज्ञायाः सहजीकरणेन, जनस्वास्थ्यस्य मानदण्डानां प्रभावकारितया क्रियान्वयनस्य अभावे च आगामिनः आश्विनमासाद् कोरोनासंक्रमणस्य तृतीयलहर्याः सम्भावनास्तीति अवोचत् ।।
राष्ट्रियसभासन्दर्भ: ।
राष्ट्रियसभायाः उपवेशे वर्षद्वयपूर्वस्य तथ्यांकविधेयकसम्बद्धविधायनव्यवस्थासमितेः प्रतिवेदनं प्रस्तुतमस्ति । राष्ट्रियसभायाः गतमंगलवासरस्योपवेशे विधायनव्यवस्थासमितेः सभापतिः परशुराममेघीगुरुंग समितेः प्रतिवेदनमेतत् प्रास्तौत् । उपवेशस्य विशेषसमये सांसदैः कोरोनासंक्रमणस्य नियन्त्रणे संवेदनशीलो भवितुम्, सूचिकौषधस्य वितरणं सहजं व्यवस्थितं च विधातुम् च सर्वकारः अभियाचितः अस्ति । राजनीतिकदलानाम् मेलनेन, जनप्रदर्शनेन च, परीक्षासमितीनां विश्वविद्यालयानां च विद्यार्थिनां भौतिकोपस्थितौ परीक्षासञ्चालनात्मकेन निर्णयेन च संक्रमणस्य संकटः प्रवर्धितः इति वितर्कयन्तः सांसदाः अत्र गभीरो भवितुम् सर्वकारस्य ध्यानम् आकर्षयन् ।।
प्रधानमन्त्रिणा निर्मलापन्तस्य हन्तुः सत्वरमन्वेषणाय निर्दिष्टम् ।
प्रधानमन्त्रिणा शेरबहादुरदेउवाभिधेन निर्मलापन्त इत्यस्याः किशोर्याः हत्यायाः दोषिणम् शीघ्रमेव अन्विष्य दण्डयितुम् निर्दिष्टस्ति । गतसोमवासरे प्रधानमन्त्रिनिवासे बालुवाटरक्षेत्रे गृहमन्त्रिणम् बालकृष्णखाँण इतीमम्, प्रहरिमहानिरीक्षकम् शैलेशथापाभिधञ्च आहूय प्रधानमन्त्री देउवा शीघ्रमेव दोषिणम् अन्विष्य दण्डयितुम् निरदिशत् । निर्मलापन्त इत्यस्याः किशोर्याः हत्यायाः वर्षत्रये व्यतीते सत्यपि दोषी नान्विष्टः अस्तीति विचार्य प्रधानमन्त्रिणा एतद्विषये ध्यानम् ददता, अनुसन्धानम् कथम् चलदस्तीति च प्रहरिप्रमुखात् ज्ञातमासीत् । कञ्चनपुरजनपदस्य त्रयोदशवर्षीयायाः निर्मलापन्त इत्यस्याः किशोर्याः वर्षत्रयपूर्वम् श्रावणमासस्य दशमदिवसे बलात्कारानन्तरम् हत्या भूता आसीत् । अस्याः घटनायाः बहुविधानुसन्धानेषु जातेष्वपि अनुसन्धानम् निष्कर्षे प्राप्तम् नास्ति ।।
नेपाली- काङ्ग्रेस- दलस्य उपवेश: ।
नेपालिकाँग्रेसदलस्य केन्द्रीयक्रियाशीलसदस्यतानुसन्धानसमित्या क्रियाशीलसदस्यतासम्बद्धं प्रतिवेदनम् अर्पितमस्ति । प्रधानमन्त्रिणः दलसभापतेश्च शेरबहादुरदेउवाभिधस्य काष्ठमण्डपस्य बुढानीलकण्ठवर्तिनि नैजनिवासे गतमंगलवासरे जाते पदाधिकारिणाम् उपवेशे नेतुः रमेशलेखकस्य संयोजकत्वे संघटितया केन्द्रीयक्रियाशीलसदस्यतानुसन्धानसमित्या क्रियाशीलसदस्यतासम्बद्धं प्रतिवेदनम् अर्पितमिति दलकार्यालयस्य मुख्यसचिवः कृष्णप्रसादपौडेलः अज्ञापयत् । उपवेशे काँग्रेसदलस्य चतुर्दशमहाधिवेशनस्य नवीनकार्यतालिकायाः विषयेऽपि विमृष्टमिति मुख्यसचिवः पौडेलः अबोधयत् । काँग्रेसदलेन आराष्ट्रम् अष्टलक्षेभ्यः द्वापञ्चाशत्सहस्रेभ्यः एकादशाधिकसप्तशताय च जनेभ्यो दलस्य क्रियाशीलसदस्यता प्रदत्ता वर्तते । अत्रान्तरे काँग्रेसदलस्य क्रियाशीलसदस्यतासम्बद्धम् विवादम् समाधातुम् शीर्षनेतृभ्यो दायित्वम् प्रदत्तमस्ति । गतबृहस्पतिवासरे उपविष्टेन काँग्रेसदलस्य पदाधिकारिणाम् उपवेशेन एतद्विषये शीर्षनेतृभ्यो दायित्वम् दत्तमस्तीति काँग्रेसदलस्य नेता क्रियाशीलसदस्यतानुसन्धानसमितेः संयोजकश्च रमेशलेखकः अज्ञापयत् ।
निर्वाचनयोगेन जसपादलस्य अधिकृतिविषये निर्णीतम् ।
निर्वाचनायोगेन जनतासमाजवादिजसपादलस्य विवादम् समादधन् अस्य आधिकारिकता उपेन्द्रयादवस्य नेतृत्वाय प्रदत्ता अस्ति । गतसोमवासरे निर्वाचनायोगेन जसपादलस्य केन्द्रीयसमितेः सर्वान् एकपञ्चाशत्–सदस्यान् आहूय उपेन्द्रयादव–महन्थठाकुरयोः मध्ये कस्य पक्षे बहुमतमस्तीति गणना कृता आसीत् । आयोगम् प्राप्य स्वाभिमतम् प्रकटितवत्सु सदस्येषु मध्ये चतुस्त्रिंशता सदस्यैः उपेन्द्रयादवस्य पक्षे हस्ताक्षरणम् कृतमासीत् चेत्, षोडशसदस्यैः महन्थठाकुरस्य पक्षे हस्ताक्षरणम् कृतमासीत्, परन्तु कारागारे स्थितेन एकेन सांसदेन रेशमचौधरिणा नैकस्यापि पक्षे मतदानम् विहितमिति निर्वाचनायोगेन ज्ञापितम् वर्तते । आयोगेन ठाकुरपक्षाय अन्यत् नूतनदलम् पञ्जीकर्तुमपि अवकाशः प्रदत्तः अस्ति । अत्रान्तरे जनतासमाजवादिदलस्य गतबुधवासरे उपविष्टेन केन्द्रीयसमितेः उपवेशेन वर्तमानम् सर्वकारम् समथ्र्य शीघ्रमेव सर्वकारे सहभागिभवितुम् निर्णीतमस्ति । उपवेशे मुख्यरूपेण त्रयो विषयाः विमृष्टाः, तेषु अन्यतमो विषयः सर्वकारे सहभागितायाः आसीदिति जसपादलस्य प्रचारविभागप्रमुखः डम्बरबहादुरकार्की अज्ञापयत् ।।
दशमकक्षीयपरीक्षाया: फलं श्रावणमासे प्रकाश्यते।
राष्ट्रियपरीक्षासमित्या गतविक्रमवर्षस्य माध्यमिकशिक्षापरीक्षायाः एसइइ इत्यस्याः आन्तरमूल्याङ्कनस्य परिणामः अस्यैव श्रावणमासस्य पञ्चविंशतिदिवसस्याभ्यन्तरे प्रकाश्यते । श्रावणमासस्य पञ्चविंशतिदिवसस्याभ्यन्तरे माध्यमिकशिक्षापरीक्षायाः प्रकाशनत्वेन अधुना तीव्रगत्या कार्यम् क्रियमाणमस्तीति परीक्षानियन्त्रणकार्यालयस्य परीक्षानियन्त्रकः रुद्र अधिकारी अज्ञापयत् । अधुना सर्वेभ्योऽपि जनपदेभ्यः मूल्याङ्कनस्य अङ्काः प्राप्ताः सन्ति, तेषाम् सर्वेषाम् परिशोधनकार्यम् जायमानमस्ति, कस्मिन्नपि व्यवधाने अनागते एकसप्ताहाभ्यन्तरे परिणामः प्रकाश्यते इति च परीक्षानियन्त्रकः अधिकारी अज्ञापयत् । सप्तसप्तत्यधिकद्विसहस्रतमविक्रमाब्दस्य माध्यमिकपरीक्षायाम् सप्तदशसहस्राधिकपञ्चलक्षाः विद्यार्थिनः सहभागिनः सन्ति । गतस्य ज्येष्ठमासस्य त्रयोदशदिवसात् माध्यमिकपरीक्षाकरणस्य तालिका आसीत्, परन्तु कोरोनाविषाणोः द्वितीयलहर्याः प्रसरणेन गतस्य वैशाखमासस्य सप्तविंशदिवसे सर्वकारेण परीक्षा स्थगिता आसीत्, ततः ज्येष्ठमासस्य मन्त्रिपरिषदः उपवेशेन आन्तरमूल्याङ्कनविधिना परिणामप्रकाशनस्य निर्णयः कृतः आसीत् । अत्रान्तरे प्रतिनिधसभायाः शिक्षास्वास्थ्यसमित्या द्वादशकक्षायाः परीक्षां जनस्वास्थ्यस्य मानदण्डम् अवलम्ब्य एव सञ्चालयितुं निर्दिष्टं वर्तते । समितेः गतबुधवासरे जातेन उपवेशेन कोभिडोनविंशतेः संक्रमणस्य मध्ये द्वादशकक्षाप्रभृतिपरीक्षाणां सञ्चालनम्, स्वास्थ्यमापदण्डश्च इति विमर्शने जनस्वास्थ्यस्य मानदण्डं प्रपूर्य एव परीक्षाः सञ्चालयितुम् निर्दिष्टम् ।।
सम्प्रति एकः अन्तरराष्ट्रियसमाचाराः
· विश्वस्मिन् कोरोनावार्ता: ।
विश्वस्मिन् विश्वे प्रसृतस्य कोरोनाविषाणोः संक्रमणस्य गतिः पुनः वर्धमाना अस्ति । अधुना शताधिकदेशेषु संक्रमणगतिः पूर्वापेक्षया वर्धमाना प्राप्तास्तीति विश्वस्वास्थ्यसंघटनेन ज्ञापितमस्ति । अधुना अशीत्यधिकशतदेशेषु संक्रमणस्य तृतीयलहरी प्रारब्धा अस्ति चेत् कतिपयदेशेषु चतुर्थलहरी च प्रारब्धा अस्तीति च विश्वस्वास्थ्यसंघटनेन ज्ञापितमस्ति । अधुना विश्वस्मिन् विश्वे कोरोनाविषाणुना संक्रान्तजनानाम् संख्या सप्ततिलक्षोत्तर–एकोनविंशतिकोट्यधिका प्राप्ता अस्ति । एवमेव अधुना यावत् अस्य विषाणोः संक्रमणेन मृतानाम् संख्या च सप्तसहस्रोत्तर–द्विचत्वारिंशल्लक्षाधिका प्राप्ता अस्ति । संक्रान्तेषु चतुरशीतिलक्षोत्तरसप्तदशकोट्यधिकजनाः स्वस्थाः सम्भूताः सन्तीति च विश्वस्वास्थ्यसंघटनेन ज्ञापितमस्ति । जगति संक्रमणसंख्यादृष्ट्या अमेरिकादेशः प्रथमस्थाने वर्तते चेत् नेपालस्य प्रतिवेशी भारतदेशः द्वितीयस्थाने, ब्राजिलदेशश्च तृतीयस्थाने वर्तेते । भारते अधुना यावत् पञ्चदशलक्षोत्तरत्रिकोट्यधिकजनाः संक्रान्ताः सन्ति चेत् सपादचतुर्लक्षाधिकजनाः मृताः सन्ति ।।
एतावता एतत्सप्ताहस्य संस्कृतभाषायाः महत्वाधायिन्य: वार्ता: ।
|ॐ|